Select Language


     
   गृहम्   
 संघे शक्ति 
  औद्योगिकक्षेत्रः  
  प्रधानः  

मैहतपुरम् आगम्यताम् | मैहतपुरे विश्रामव्यवस्था | चित्रफलकम्
शिवमन्दिरम् | अन्यानि सम्बद्धानि जालपत्राणि | सम्पर्कसूत्रम् | संस्कृतखण्डस्य सम्पादकः
Untitled Document
          मैहतपुर-औद्योगिक-क्षेत्रं गतशताब्दस्य सप्तमदशके विकसितम्। अस्य क्षेत्रस्य औद्योगिककेन्द्रनिर्माणस्य मुख्यकारणं पञ्जाबप्रदेशस्य आपणं निकटं वर्तते। रेलयानं यातायात परिवहनसुविधाश्च सरलतया उपलब्धाः। अन्यच्च कामगाराः विद्युदुपलब्धताश्चापि सहजेन उपलब्धाः। सर्वप्रथमं पञ्चसप्तत्यधिकमेकोनविंशशतं (1975) वर्षे उद्योगपतयः आगताः।
          औद्योगिकसंघस्य आवश्यकता 1980-81 मध्ये सर्वप्रथमम् अनुभूता औद्योगिकैः। तत्र भवननिर्माणे यन्त्रानयने धनोपलब्धकरणे इत्यादिविषये प्राथमिकाः समस्याः आगताः। तस्मात् मैहतपुर-औद्योगिकसंघः इति ट्रेड-यूनियन-एक्ट-इत्यस्यान्तर्गते पञ्जीकृतः। प्रारम्भे पञ्चविंशति औद्योगिकाः अस्य संघस्य सदस्याः आसन्। ततः क्रमशः वर्धमानाः इदानीं पञ्चाशताधिकमेकशतं (150) सदस्याः सन्ति। अत्र मैहतपुर-औद्योगिकक्षेत्रे ये ये उद्योगाः सन्ति तेषां सम्बन्धिनः संघस्य सदस्याः सन्त्येव।
          अतीतेऽस्माकं संघेन न केवलम् उद्योगपतीनां समस्याः निराकृताः अपितु सर्वकारस्य कृते विविधस्य औद्योगिकनीतिमार्गस्य गठनमपि कृतम्।